ख. अनुमानविषये नागमस्य प्रामाण्यम्

न चागमात् प्रतिवादिनोपि साधनसिद्धिर्युक्तेति वक्तुमाह ।

अनुमाविषये नेष्टं परीक्षितपरिग्रहात् ।
वाचः प्रामाण्यमस्मिन् हि नानुमानं प्रवर्तते ॥ २ ॥

अनुमानस्य वस्तुबलप्रवृत्तस्य विषये यस्मादनुमानज्ञानमुत्पद्यते (।) स च
त्रिरूपो हेतुः (।) तत्र प्रतिपाद्ये वाच आगमात्मिकायाः प्रामाण्यं नेष्टमर्थप्रति
बन्धाभावादित्युक्तं ।

किञ्च (।) प्रमाणान्तरसम्वादा
त् परीक्षितस्य प्रमाणोपपन्नस्यागमा
र्थस्य परिग्रहात् स्वीकारान्नेष्टं वचनप्रामाण्यं । यदि वचनमित्येव प्रमाणन्तदा
प्रतिज्ञापदादेव साध्यस्य सिद्धेर्निष्फलं हेतुदृष्टन्तादिवचनं स्यात् । प्रमाणान्तर
सम्वादापेक्षा च न भवेत् । सम्वादज्ञानस्यैवार्थभावानुविधायित्वात् तस्मि
न्नागमार्थे प्रामाण्यं । वचनस्य तु विपर्ययात् । यदि त्वागम इत्ये
व प्रमाणं
(।) तदा प्रमाणान्तरसम्वादापेक्षा न स्यात् । हि यस्मात् । अस्मिन्नागमार्थे
प्रमाणप्रतिपादितत्वान्निश्चितेऽनुमानं न प्रवृर्त्तते (।) यदि ह्यागमार्थः सन्दिह्येत
तदा तन्निश्चयार्था प्रमाणान्तरवृत्तिरपेक्ष्येत ॥ (२)