उक्ता प्रतीतिबाधा ॥

458

(७) प्रत्यक्षबाधा

प्रत्यक्षबाधा वक्तव्या । न केवलं शाब्दप्रसिद्धे व्यवहारधर्मप्रसिद्धौ तत्प्रतिरोद्धा
बाध्यते । किन्तु (।)

अत्राप्यध्यक्षबाधायां नानारूपतया ध्वनौ ।
प्रसिद्धस्य श्रुतौ;

अत्राप्यध्यक्षबाधायां व्यावहारिककल्पनावशात् नानारूपतया लोके प्रसिद्धस्य ख्यातस्य ध्वनौ श्रुतौ श्रवणज्ञाने ॥

रूपं यदेव प्रतिभासते ॥ १३१ ॥
अद्वयं शबलाभासस्यादृष्टेर्बुद्धिजन्मनः ।
तदर्थार्थोक्तिरस्यैव क्षेपेऽध्यक्षेण बाधनम् ॥ १३२ ॥

यदेव रूपमद्वयं धर्मादिद्वयशून्यं प्रतिभासते शबलाभासस्य नाना
कारस्य
बुद्धिजन्मनोऽदृष्टेः । यदि नानाकरता शब्दस्य वास्तवी स्यात् (।) तथैव श्रुतिज्ञाने
प्रतिभासेत । तदर्था तत्प्रतिपादनफलाऽचार्यस्य प्रत्यक्षानुमानार्थप्रसिद्धेन निराकृत
इत्यत्रार्थोक्तिरर्थ2275ग्रहणमस्याध्यक्ष2276सिद्धस्यैव रूपस्य 2277 क्षेपेऽध्यक्षेण बाधनमिष्टं ।
(१३१,१३२)

  1. श्रोत्रशब्दयोर्यः सम्बन्धो ग्राह्यगाहकलक्षणस्तद्धितवाच्यः स श्रावणशब्दस्यार्थः ।

  2. स्वलक्षणस्यैव ।

  3. न ग्राह्यग्राहकत्वप्रतिषेधे सामान्यस्य वा ।