(७) प्रत्यक्षबाधा
प्रत्यक्षबाधा वक्तव्या । न केवलं शाब्दप्रसिद्धे व्यवहारधर्मप्रसिद्धौ तत्प्रतिरोद्धा
बाध्यते । किन्तु (।)
अत्राप्यध्यक्षबाधायां व्यावहारिककल्पनावशात् नानारूपतया लोके प्रसिद्धस्य ख्यातस्य ध्वनौ श्रुतौ श्रवणज्ञाने ॥
यदेव रूपमद्वयं धर्मादिद्वयशून्यं प्रतिभासते शबलाभासस्य नाना
कारस्य
बुद्धिजन्मनोऽदृष्टेः । यदि नानाकरता शब्दस्य वास्तवी स्यात् (।) तथैव श्रुतिज्ञाने
प्रतिभासेत । तदर्था तत्प्रतिपादनफलाऽचार्यस्य प्रत्यक्षानुमानार्थप्रसिद्धेन निराकृत
इत्यत्रार्थोक्तिरर्थ2275ग्रहणमस्याध्यक्ष2276सिद्धस्यैव रूपस्य 2277
क्षेपेऽध्यक्षेण बाधनमिष्टं ।
(१३१,१३२)
४. सामान्यचिन्ता
(१) सामान्यं व्यावृत्तिलक्षणम्
तत्र श्रुतिज्ञाने भासमानं तद्रूपमर्थः स्वलक्षणं । तदतिरिक्तं शेषं । धर्मिधर्मादि2278
व्यावृत्तिलक्षणमन्यव्यवच्छेदस्वभावम
वस्तुभूतं सर्व्वत्र सम्भवात् सामान्यञ्च ।
अतोऽवस्तुत्वादेस्तद्गुणजात्यादि नाक्षगोचरः । (१३३)