परस्य प्रतिज्ञाभासलक्षणं संप्रति निराकरणीयं (।) हेतुप्रतिज्ञयोर्व्याघातः
प्रतिज्ञादोषो मतः । यथा नित्यः शब्दः सर्वस्य नित्यत्वात् । यदि सर्वमनित्यं तदा
शब्दस्यापि सर्वत्रान्तर्भावात् कुतो नित्यता । अथ शब्दो नित्यः कथं सर्वस्या
नित्यतेति प्रतिज्ञाहेत्वोर्विरोधात् । प्रतिज्ञाविरुद्धतादोषः ।

विरुद्धतेष्टासम्बन्धोऽनुपकारसहास्थिती ।
एवं सर्वाङ्गदोषाणां प्रतिज्ञादोषता भवेत् ॥ १७३ ॥

विरुद्धता चेष्टस्या साध्यधर्मस्य धर्मिण्यसम्बन्धो नाम । स च विचार्यमाणो
476 हेतुना
साध्यधर्मस्यानुपकारोऽनिश्चायनं वा स्यात् । धर्मिणि साध्येन सहास्थितिर्वा
स्यात् । तत्र यदि हेतोः साध्ये प्रतिपादकत्वाभावात् प्रतिज्ञादोष उच्यते (।) एवं
सति सर्वेषामङ्गस्य हेतोर्दोषाणां प्रतिज्ञादोषता भवेत् सर्वैर्हेंतुदोषैः प्रतिज्ञाया एव
व्याहननात् ।

पक्षदोषः परापक्षो नेति च प्रतिपादितम् ।
इष्टासम्भव्यसिद्धश्च स एवं स्यान्निराकृतः ॥ १७४ ॥

प्रतिज्ञामात्रभागी च पक्षदोषः । परापेक्षः साधनादिसापेक्षः न दोष इति च
प्रतिपादितं प्रागुत्तरा
वयवापेक्षो न दोषः पक्ष इष्यत इत्यादिना । अथ सहा
स्थितिस्वभावो विरोधः । तदेष्टे पक्षेऽसम्भवी हेतुदोष एवायं न पक्षदोषः । अथ
तेन हेतुना प्रतिज्ञार्थनिराकरणात् प्रतिज्ञाविरोधः पक्ष-दोष एव (।) तच्चायुक्तं
तथा हि (।) साध्यधर्मो धर्मिण्येवं निराकृतः स्यात् ।

अनित्यत्वसहेतुत्वे शब्द एवं प्रकीर्त्तयेत् ।
दृष्टान्ताख्यानतोऽन्यत् किमस्त्यत्रार्थानुदर्शम् ॥ १७५ ॥

यदि शब्दे धर्मिण्यनित्यत्वेन धर्मेण सहेतुत्वे प्रतिपाद्ये एवं सर्वस्यानित्यत्वादि
97a प्रकीर्त्तयेत्
 । न चेदृशं वादिनो विवक्षितं सर्व्वस्य परस्यानित्यत्वात् । शब्दो नित्य
इति विवक्षितत्वात् । तथा च सामान्यविशेषभावाद् विरोधभावः । भवतु वा
शब्देऽनित्यत्वनिराकरणं विवक्षितं (।) तथापि प्रमाणबाधैवापक्षतेति न प्रतिज्ञा
विरोधो नाम पक्षदोषः । तस्माद्धेत्वर्थतानुपपत्तेः सर्व्वस्यानित्यत्वादित्यत्र वैधर्म्येण
दृष्टान्ताख्यानतोऽन्यदर्थानुदर्शनं किमस्ति । वैधर्म्यदृष्टान्त एव
सुशिक्षितै
रित्थमाख्यातः । सर्व्वस्य नित्यत्वे व्याप्तिदर्शनार्थं यदि पुनर्व्वैधर्म्यदृष्टान्तोपद
र्शनमेतन्न भवति (।) तदा ।