476 हेतुना
साध्यधर्मस्यानुपकारोऽनिश्चायनं वा स्यात् । धर्मिणि साध्येन सहास्थितिर्वा
स्यात् । तत्र यदि हेतोः साध्ये प्रतिपादकत्वाभावात् प्रतिज्ञादोष उच्यते (।) एवं
सति सर्वेषामङ्गस्य हेतोर्दोषाणां प्रतिज्ञादोषता भवेत् सर्वैर्हेंतुदोषैः प्रतिज्ञाया एव
व्याहननात् ।

पक्षदोषः परापक्षो नेति च प्रतिपादितम् ।
इष्टासम्भव्यसिद्धश्च स एवं स्यान्निराकृतः ॥ १७४ ॥

प्रतिज्ञामात्रभागी च पक्षदोषः । परापेक्षः साधनादिसापेक्षः न दोष इति च
प्रतिपादितं प्रागुत्तरा
वयवापेक्षो न दोषः पक्ष इष्यत इत्यादिना । अथ सहा
स्थितिस्वभावो विरोधः । तदेष्टे पक्षेऽसम्भवी हेतुदोष एवायं न पक्षदोषः । अथ
तेन हेतुना प्रतिज्ञार्थनिराकरणात् प्रतिज्ञाविरोधः पक्ष-दोष एव (।) तच्चायुक्तं
तथा हि (।) साध्यधर्मो धर्मिण्येवं निराकृतः स्यात् ।

अनित्यत्वसहेतुत्वे शब्द एवं प्रकीर्त्तयेत् ।
दृष्टान्ताख्यानतोऽन्यत् किमस्त्यत्रार्थानुदर्शम् ॥ १७५ ॥

यदि शब्दे धर्मिण्यनित्यत्वेन धर्मेण सहेतुत्वे प्रतिपाद्ये एवं सर्वस्यानित्यत्वादि
97a प्रकीर्त्तयेत्
 । न चेदृशं वादिनो विवक्षितं सर्व्वस्य परस्यानित्यत्वात् । शब्दो नित्य
इति विवक्षितत्वात् । तथा च सामान्यविशेषभावाद् विरोधभावः । भवतु वा
शब्देऽनित्यत्वनिराकरणं विवक्षितं (।) तथापि प्रमाणबाधैवापक्षतेति न प्रतिज्ञा
विरोधो नाम पक्षदोषः । तस्माद्धेत्वर्थतानुपपत्तेः सर्व्वस्यानित्यत्वादित्यत्र वैधर्म्येण
दृष्टान्ताख्यानतोऽन्यदर्थानुदर्शनं किमस्ति । वैधर्म्यदृष्टान्त एव
सुशिक्षितै
रित्थमाख्यातः । सर्व्वस्य नित्यत्वे व्याप्तिदर्शनार्थं यदि पुनर्व्वैधर्म्यदृष्टान्तोपद
र्शनमेतन्न भवति (।) तदा ।

(५) सामान्यचिन्ता

क. सामान्यानुवर्त्तने निष्फलम्

विशेषेभिन्नमाख्याय सामान्यस्यानुवर्त्तने ।
न तद्व्याप्तिः फलं वा किं सामान्येनानुवर्त्तने ॥ १७६ ॥

विशेषेण शब्दे भिन्नं नित्यत्वमाख्याय सर्व्वस्यानित्यत्वादिति व्यापित्वात्
सामान्यस्यानित्यत्वस्यानुवर्त्तने क्रियमाणे तस्यानित्यत्वस्य व्याप्तिरशेषपदार्थग्रहो
न भवति । यथा कौण्डिन्यस्य तक्रदानं विहितं ब्राह्मणेभ्यः सामान्येन विहितदधि
दानेन न बाध्यते । प्रकल्प्याप
वादविषयमुत्सर्गस्य प्रवृत्तेः । तथा शब्दे नित्यत्वस्य