484 एव बुद्धिस्थीकृत्य विशेषणे
न व्यवच्छेदो नेतरस्येति लोकप्रसिद्धेः । विवक्षाया
अनुगमात् ध्वने
र्व्यवच्छेदादौ सामर्थ्यान्नाविवक्षितव्यवच्छेदः । यत एवायोगव्यव
च्छेदोप्यस्ति (।)

तदयोगव्यवच्छेदाद् धर्मी-धर्मविशेषणम् ।
तद्विशिष्टतया धर्मो न निरन्वयदोषभाक् ॥ १९४ ॥

तत् तस्माद् धर्मी पक्षो धर्मस्यायोगव्यवच्छेदाद् विशेषणं धर्मिणो नाधर्मो2353
हेतुरित्यर्थः । अयोगव्यवच्छेदात् तेन धर्मिणा विशिष्टतया धर्मो निरन्वयदोषभाग्
भवति ।

सपक्षे घटादौ सन् शब्दानित्यत्वे साध्ये
कृतकत्वं हेतुः । असन् सपक्षे व्योमादौ
शब्दानित्यत्वे साध्ये कृतकत्वं हेतुः । सपक्षे द्वेधा । सन्नसँश्च (।) शब्दानित्यत्वे
साध्ये यत्नजत्वं हेतुः । घटादौ सपक्षे सन् विद्युदादौ चासन् । पुनस्त्रिधा (।)
सपक्षे सन् असन् सदसँश्च (।) शब्दस्य यत्नजत्वे साध्ये सपक्षे घटादावनित्यत्वं
हेतुः सन् । शब्दानित्यत्वे साध्ये यत्नजत्वं हेतुरसन् विद्युदादौ सपक्षे ॥ शब्दे

यत्नजत्वे साध्येऽनित्यत्वं हेतुः सपक्षे विद्युदादौ सन् । व्योमादौ चासन् । एवं
प्रत्येकमसपक्षेपि सन् असन् द्वेधा चेति योज्यं । शब्दनित्यत्वे साध्ये प्रमेयत्वं हेतुः (।)
असपक्षे घटादौ सन् (।) शब्दनित्यत्वे साध्ये श्रावणत्वं हेतुरसपक्षेऽसन् शब्द
नित्यत्वे साध्येऽस्पर्शवत्वं हेतुरसपक्षे घटादावसन् (।) बुद्ध्यादौ सन्निति द्विधा
98b पक्षधर्मनिर्देशः । किमर्थ हे
तुप्रकरणे नवधा पक्षधर्मनिर्देशः ।---

(२) हेतुभेदा

---सम्यग्धेतुरसिद्धविरुद्धानैकान्तिकहेत्वाभासा एव युक्तनिर्देशा इत्याह ।

स्वभावकार्यसिध्यर्थं द्वौ द्वौ हेतुविपर्ययौ ।
विवादाद् भेदसामान्ये शेषो व्यावृत्तिसाधनः ॥ १९५ ॥

स्वभावकार्ययोरेव हेतुत्वेन सिद्ध्यर्थं तत्र द्वौ शब्देऽनित्यत्वसिद्ध्यर्थं कृतकत्व
प्रयत्नानन्तरीयकत्वाख्यौ हेतू निर्दिष्टौ । तथा शब्द एव नित्यत्वसाधने द्वौ हेतु
विपर्ययौ
विरुद्धौ हेतुभावे चोक्तौ । यथा हि सम्यग्धेतोः स्वसाध्ये व्याप्यकार्य
तया प्रतिबद्धस्य गमक
त्वं । तथा साध्यविपर्यये व्याप्यकार्यतया प्रतिबद्धस्यैव

  1. अपि तु धर्म एव ।