b. संहतौ हेतुता नेश्वरादौ

तस्मात् पृथगशक्तेषु येषु संभाव्यते गुणः ।
संहतौ हेतुता तेषां नेश्वरादेरभेदतः ॥ ३० ॥

तस्मात् पृथगशक्तेषु येषु
सम्भाव्यते गुणः
स्वरूपान्तरोत्पादलक्षणं संहतौ हेतुता
तेषां
क्षणिकानां नेश्वरादेर123 भेदतः । ईश्वरप्रधानपुरुषादेरकारकाभिन्नस्वरूपत्वान्न
हेतुत्वमित्यु124पसंहारः । उक्तमीश्वरादिदूषणं ॥ (३०) ॥

  1. आदिना स्थिरात्मनां ग्रहः ।

  2. तस्मात् स्थितमेव तत्र नित्यं प्रमाणमिति ।