(३. सामान्यतत्कल्यनानिरासः)

अशक्तं सर्वमिति चेद् बीजादेरङ्कुरादिषु ।
दृष्टा शक्तिः;

स्वलक्षणसामान्यलक्षणे इष्टे ॥ सर्व्वमर्थकारित्वेने548ष्टमशक्तं । न किञ्चित्
कर्त्तुं सम
र्थमिति चेत् । बीजादेः कारणाभिमतस्याङ्कुरादौ कार्यसंमते दृष्टा शक्ति- 113 र्जननलक्षणा । बीजान्वयव्यतिरेकानुविधाय्यङ्कुरो दृश्यते (।) इदमेव कारणस्य
शक्तत्वं यत्प्रागदृष्टस्य तद्भाव एव भावः ॥

मता सा चेत् संवृत्या;

सा शक्तिः संवृत्या मता चेत् कार्यकारणभावो हि व्यवहारमात्रतः सिद्धः न
परमार्थतः । न तावत्प्रत्यक्षं तद्ग्रहणसमर्थं बीजाङ्कुरग्राहिणोः प्रत्यक्षयोः
स्वविषयमात्रव्यवस्थापनात् केनान्वयव्यतिरेकग्रहणं । क्रमेण द्वयोर्गृहीतयोस्तद्बल

भाविना स्मरणेन ग्रहणमिति चेत् ।

ननु केनान्वयव्यतिरेकौ गृहीतौ । न प्रत्येकं बीजाङ्कुरज्ञानाभ्यां स्वस्वविषय
ग्रहणात् । नापि द्वाभ्यां ज्ञानयोर्ज्ञेययोश्च साहित्याभावात् । असाहित्ये बीजाङ्कुर
मात्रस्य ग्रहणं नान्वयव्यतिरेकयोः । क्रमग्रहणमेव कार्यकारणभावग्रहणम् । तत्तु घट
कुलालयोरप्यस्ति इति चेत् (।) न च क्रमोपि केनचिच्छक्यग्रहणः549प्रतियोग्यवेदना550त् ।
पूर्वापरग्रहणमत एव नास्ति स्वज्ञानेन वर्तमानता
ग्रहणाच्च । कार्यकाले च कारणं
पूर्व्वमुच्यते तदा च तदेव नास्ति । तदेतन्मृतस्यारोग्यं । अथ यदैव बीजं तदैवाङ्कु
रात् पूर्व्वं न तु पश्चात् अस्य पूर्व्वत्वं सम्भवति ॥

नन्वेवं पूर्व्वतया प्रतिभासोस्य प्राप्तः । न चैतदस्ति । अङ्कुरसाहित्यं पूर्व्वत्वं
तच्च गृह्यत एवेति चेत् । तादृशं पूर्व्वत्वमन्येषामप्यस्तीति तेपि कारणानि
स्युः । किञ्च (।) पूर्व्वत्वं वर्तमानकालात्प्राग्भावित्वमुच्यते (।) तद्यदि वस्तुनो रूपं
तदा वर्तमानं कदापि न
स्यात् । वर्तमानतातत्प्राग्भावित्वयोर्व्विरोधात् । स्यादे
तदङ्कुरवर्तमानतायाः प्राग्भावित्वं पूर्व्वत्वं । तच्च बीजस्य वर्तमानत्वेनाविरुद्ध
मिति न तस्याभावः । एवन्तर्हि बीजग्रहणे पूर्व्वताग्रहणं प्राप्तं । न च बीजस्वरूप
मिव पूर्व्वतामपि तद्ग्राहिणि ज्ञाने कश्चिदुपलभते ।

551न्वापेक्षिकमिदं पूर्व्वत्वं प्रतियोगिनोऽप्रतीतौ कथं प्रतीयतां । य552द्येवं वस्तुनो
नेदं केवलं भावान्तरापेक्षया व्यवह्रियत इत्या(या)तं
(।) न हि वस्तुरूपं सति वस्तुनि21b
नास्ति (।) यच्चास्ति तेन वस्तुरूपावभासिनि ज्ञाने प्रतिभासितव्यमेव । अन्यथा ज्ञान
ज्ञेययोर्व्विषयविषयितैव न स्यात् (।) तस्मान्नाध्यक्षात् कार्यकारणताग्रहः । अतश्च
नानुमानादपि । न हि सर्व्वदा परोक्षेऽन्येऽनुमानवृत्तिः व्याप्तिग्रहणपूर्व्वकत्वात्तस्य ।
नापि प्रत्यक्षबलभाविस्मरणं तद्ग्रहणप्रवणं(।)न हि तत्स्वतन्त्रं प्रमाणं किन्तु प्रमाण
114 व्यापारव्यवस्थापकं । यदि यथानुभवं प्रवर्तते नान्यथा । न च कार्य
कारणभावा
नुभवो भूत इत्युक्तं । अतः स्मरणत्वमप्यस्य नास्ति । अनूभूतविकल्पनस्य स्मरण
त्वात् (।) ततो विकल्पमात्रमेतत् न ततो वस्तुव्यवस्थेति संवृत्त्यैवाविचारितरमणी
यया कार्यकारणभावव्यवहारो न परमार्थतः ।

अस्तु यथा तथा ॥ ४ ॥

अस्तु553 यथा तथा । सांवृतमपि कार्यकारणभावमाश्रित्य साध्यसाधनादि
व्यवहारसम्वादसम्प्रत्ययात् समाप्तो लोकव्यवहारः । सांव्यवहारिकञ्च प्रमाणं
तावतैव सुस्थं । (४)

  1. माध्यमिको सिद्धतामाह ।

  2. स्वरूपमात्रवेदनात् ।

  3. अक्रमवेद(ना)पेक्षत्वात् ।

  4. परः ।

  5. माध्यमिकः ।

  6. सिद्धान्ती(---)अर्थक्रिया तावदस्ति । अन्यथा जगद्व्यालोपः ।