एतेन समयाभोगाद्यन्तरङ्गानुरोधतः ।
घटोत्क्षेपणसामान्यसंख्यादिषु धियो गताः ॥ ६ ॥

एतेन सामान्यस्य ज्ञानमात्रकार्येप्यसामर्थ्यकथनेन समयाभोगादेरन्तरङ्गस्या
नुरोधतः । घटोऽवयवि द्रव्यं । उत्क्षेपणं कर्म । सामान्यं संख्या गुणः समवायः आदि शब्दात्संयोगविभागादयः । तेषु या धियो विकल्पिका भवन्ति ता गता व्याख्याता
ः ।
115 न हि रूपा557दिव्यतिरिक्तं द्रव्यं । अपरापरदेशिजन्यहस्तादिक्षणाद् भिन्नं कर्म,
व्यक्तिव्यतिरेकि सामान्यं प्रत्यक्षबुद्धावभासते । विकल्पबुद्धिरस्तु कल्पिका । सा च558
संकेतसँस्कारप्रबोधमात्रभाविनी नार्थाधीनेति न ते559षां सामर्थ्यं समर्थयति ॥ (६)

  1. ननु प्रत्यक्षगम्यमेवोत्क्षेपणादीत्याह (।)

  2. समयाभोगं व्याचष्टे ।

  3. अर्थानामनुमाजनने ।