114 व्यापारव्यवस्थापकं । यदि यथानुभवं प्रवर्तते नान्यथा । न च कार्य
कारणभावा
नुभवो भूत इत्युक्तं । अतः स्मरणत्वमप्यस्य नास्ति । अनूभूतविकल्पनस्य स्मरण
त्वात् (।) ततो विकल्पमात्रमेतत् न ततो वस्तुव्यवस्थेति संवृत्त्यैवाविचारितरमणी
यया कार्यकारणभावव्यवहारो न परमार्थतः ।
अस्तु553 यथा तथा । सांवृतमपि कार्यकारणभावमाश्रित्य साध्यसाधनादि
व्यवहारसम्वादसम्प्रत्ययात् समाप्तो लोकव्यवहारः । सांव्यवहारिकञ्च प्रमाणं
तावतैव सुस्थं । (४)
(१) सामान्यचिन्ता
(क) सामान्ये नार्थक्रियासामर्थ्यम्
सार्थक्रिया स
र्व्वत्र स्वलक्षणे सामा554न्येप्यस्ति चेत् न सामान्यलक्षणे ।
अस्तु तावदन्यस्य कार्यस्य बुद्धेरप्यन्वयव्यतिरेकयोरदृष्टेः । अन्त्यं हि भावानां
कार्यं बुद्धिः । सापि यदन्वयव्यतिरेकौ नानुविधत्ते (।) तस्य कुतोऽर्थक्रिया । प्रत्यक्षं
तावन्न सामान्यविषयं स्वलक्षणमात्रस्य प्रतिभासनात् । घट इत्यादिविकल्पबुद्धिस्तु
सामान्यावसायात् त555द्विषया । सापि समयाभो556गादिमात्रादुत्पत्तेर्न सामान्यान्वय
व्यतिरेकानुविधायिनी
। चक्षूरूपादिबुद्धिवत् चक्षूरूपादिजबुद्धेः । चक्षुराद्यन्वय
व्यतिरेकानुविधानमिव सामर्थ्ये सति भावादेकापायेप्यभावाच्च । नैवं सामान्य
बुद्धिराभोगमात्रादुत्पत्तेः । (५)
एतेन सामान्यस्य ज्ञानमात्रकार्येप्यसामर्थ्यकथनेन समयाभोगादेरन्तरङ्गस्या
नुरोधतः । घटोऽवयवि द्रव्यं । उत्क्षेपणं कर्म । सामान्यं संख्या गुणः समवायः आदि शब्दात्संयोगविभागादयः । तेषु या धियो विकल्पिका भवन्ति ता गता व्याख्याता
ः ।