(१) सामान्यचिन्ता

(क) सामान्ये नार्थक्रियासामर्थ्यम्

सास्ति सर्वत्र चेद् बुद्धेर्नान्वयव्यतिरेकयोः ।
सामान्यलक्षणेऽदृष्टेः चक्षूरूपादिबुद्धिवत् ॥ ५ ॥

सार्थक्रिया
र्व्वत्र
स्वलक्षणे सामा554न्येप्यस्ति चेत् न सामान्यलक्षणे ।
अस्तु तावदन्यस्य कार्यस्य बुद्धेरप्यन्वयव्यतिरेकयोरदृष्टेः । अन्त्यं हि भावानां
कार्यं बुद्धिः । सापि यदन्वयव्यतिरेकौ नानुविधत्ते (।) तस्य कुतोऽर्थक्रिया । प्रत्यक्षं
तावन्न सामान्यविषयं स्वलक्षणमात्रस्य प्रतिभासनात् । घट इत्यादिविकल्पबुद्धिस्तु
सामान्यावसायात् त555द्विषया । सापि समयाभो556गादिमात्रादुत्पत्तेर्न सामान्यान्वय
व्यतिरेकानुविधायिनी
 । चक्षूरूपादिबुद्धिवत् चक्षूरूपादिजबुद्धेः । चक्षुराद्यन्वय
व्यतिरेकानुविधानमिव सामर्थ्ये सति भावादेकापायेप्यभावाच्च । नैवं सामान्य
बुद्धिराभोगमात्रादुत्पत्तेः । (५)

  1. चक्षुःश्रोत्रादिरूपशब्दादि ।

  2. सामान्यविषया ।

  3. चित्ताभोगो मनस्कारः ।