किन्तु भाववासनाप्रबोधप्रसूतविकल्पकल्पितत्वात्643 । परमार्थतो मेयं त्वेकं
स्वलक्षणं । तस्यैव रूपबुद्ध्युत्पादकत्वात् । (५३)
सामान्यस्य तु कल्पि
तत्वात् । सामर्थ्याभावात्स्वलक्षणमेकं प्रमेयं तस्माद
र्थक्रियासिद्धेः । अर्थक्रियार्थिभिः सदसत्ताभ्यां तस्यैव विचारणात् । असत्त्वमपि
स्वलक्षण644स्यैव विचिन्त्यते ।
यद्येकमेव प्रमेयं तदा645चार्येण प्रमेयद्वैविध्यं यदुक्तं न स्वसामान्यलक्षणाभ्या
मन्यत्प्रमेयमस्तीति तद् विरुध्यते इत्याह ।
तस्य स्वलक्षणस्य प्रत्यक्षतः स्वरूपेणानुमानतः पररूपेण सामान्याकारेण
गतेर्मेयद्वयं मतं न तु भूतसामान्यस्य सत्त्वात् (५४) ।
४. अनुमानचिन्ता
(१) अनुमानसिद्धिः
क. भ्रान्तमनुमानं प्रमाणाम्
या च द्वितीया पररूपेण गति
रयथाभिनिवेशेन भ्रान्तिरिष्यते साऽनुमानं
यथाऽर्थोस्ति यथा वा स्वाकारस्तथा नाभिनिविशते किन्तु स्वाकारं बाह्यं साधारण
तया मन्यते ।
नन्वनुमानं पररूपेण गतिश्चेत् तदा भ्रान्तिरेव । न च भ्रान्तेः प्रमाणतेष्यते
मृगतृष्णादेरिव । (५५)