155

सन्त्येवेन्द्रियधियः कल्पनास्तास्तु नोपलभ्यन्त इत्यप्यसत् । तथा हि ।

पुनर्विकल्पयन् किञ्चिदासीन्मे कल्पनेदृशी ।
वेत्ति चेति न पूर्व्वोक्तावस्थायामिन्द्रियाद् गतौ ॥ १२५ ॥

विकल्पावस्थाया ऊर्ध्वं पुनर्व्विकल्पयन् पुमानासीन्मे कल्पनेदृशीति वेति नेन्द्रि
यादु
त्पन्नायां गतौ बुद्धौ संहृत्येत्यादिना पूर्व्वमुक्तावस्था यस्यास्तस्याः कल्पनां वेति ।
यदि सा तत्र स्यादतत्संस्कारस्य स्मृतिर्जायते । तस्मान्नास्तीति निश्चीयते (। १२५)