209 व्यवधानेन भवति स तस्याः कारणमुच्यते । ततश्चेन्द्रियादेः प्रमितिं प्रत्यव्यवहित
साधकत्वाभावात् न प्रमाणं । (३०१)

किन्तर्हि प्रमाणमस्तीत्याह (।)

तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः ।
भाव्यन्तेनात्मना येन प्रतिकर्म्म विभज्यते ॥ ३०२ ॥

तत्र रूपादौ कर्मणि ज्ञानस्यानुभवमात्रेणानुभवात्मनो सदृशात्मनस्तुल्यरूपस्य

तेनात्मना स्वरूपेण प्रतिविषयं व्यतिरेकिणा भाव्यं येन प्रतिकर्म्म प्रतिविषयज्ञानं
विभज्यते । नीलस्येदं पीतस्येदमिति । अन्यथानुभवमात्रतया सर्व्वत्र विषये सदृशं
ज्ञानं प्रतिविषयं कथं भेदेन व्यवस्थापयितुं शक्येत । (३०२)

स्यादेतदिन्द्रियादेर्हेतोः सव्यापा946 रतादिलक्षणो विशेषो ज्ञानानां भेदेन निया
मकमित्याह (।)

अनात्मभूतो भेदोस्य विद्यमानोपि हेतुषु ।
भिन्ने कर्मण्यभिन्नस्य न भेदेन नियामकः ॥ ३०३ ॥

हेतुष्विन्द्रियादिषु भेदो विशेषः सव्यापारतादिलक्षणो विद्य
मानोप्यस्य
ज्ञान947स्यानुभवमात्रात्मतया भिन्नस्य भिन्ने कर्म्मणि नीलादौ ग्राह्ये भेदेन नियामको न युक्तः । कस्मादित्याह (।) अनात्मभूतः । ज्ञानास्वरूपत्वादिन्द्रियस्य विशेषः
प्रतिकर्म्म न भेत्तुमर्हति । (३०३)

तस्माद् यतोस्यात्मभेदादस्याधिगतिरित्ययम् ।
क्रियायाः कर्मनियमः सिद्धा सा तत्प्रसाधना ॥ ३०४ ॥

तस्मादस्य ज्ञानस्यात्मभेदात् यतोऽस्यार्थस्येयमधिगतिरिति क्रियाया अधि
गतेः कर्मणि वेद्ये नियमः सा क्रिया तत्प्रसाधना तत्करणाऽभ्युपगन्तव्या ।
(३०४)

स्यादेतद् (।) इन्द्रियादिरेव स्वभेदाद् भेद
को ज्ञानस्य प्रतिविषयमधिगते
र्नियामकः । ततश्चानुभवात्मत्वादविषय एवासिद्ध इत्याह (।)

अर्थेन घटयत्येनां न हि मुक्त्‏वार्थरूपताम् ।
अन्यः स्वभेदाज्ज्ञानस्य भेदकोपि कथञ्चन ॥ ३०५ ॥
  1. आविलतादि ।

  2. विषयसारूप्यानधिगमे निराकारवादिनः सर्व्वं ज्ञानं
    बोधरूपतामात्रेणावशिष्टं विषयाधिगते हेतुरिति स्थितिः ।