नन्वियं रसवत्ता प्रागेव माधुर्यप्रस्तावे दर्शिता । तत् किं पुनरुच्यत इति चेदाह—

वाच्यस्याग्राम्यतायोनिर्माधुर्ये दर्शितो रसः ।
इह त्वष्टरसायत्ता रसवत्ता स्मृता गिराम् ॥ २९० ॥

वाच्यस्य काव्याधेयवस्तुनः सम्बधिनी सा ग्राम्यता असभ्यता योनिः प्रभवः अस्येति अग्राम्यतायोनिः । गमकत्वाद्वाच्यस्येति सापेक्षत्वेऽपि समस्यते । रसोऽर्थरसः । माधुर्ये शब्दार्थसाधारणे विभज्यमाने दर्शितः कामं सर्वोऽप्यलङ्कार १.६२ इत्यादिना । इह तु रसवदलङ्कारेऽष्टौ यथोक्ता रसास्तेष्वायत्ता प्रतिबद्धा रसवत्ता रसयोगिता अष्टरसा इति यावत् । गिरां काव्यानां सम्बन्धिनः स्मृता अभिमता इति ।

रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिता ॥
91
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।
वीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्यरसाः स्मृताः ॥
92

इति भावरससंग्रहश्लोकाविति ॥

  1. नाट्यशास्त्रे ६. १८
  2. नाट्यशास्त्रे ६. १६