ऊर्जस्वि निदर्शयन्नाह—

अपकर्ताहमस्मीति हृदि ते मा स्म भूद्भयम् ।
विमुखेषु न मे खङ्गः ग्रहर्तुं जातु वाञ्छति ॥ २९१ ॥

अहमस्यापकर्ता प्रतिकूलवर्ती प्राप्तश्चेदानीमनेनास्मि भवामीति हेतोस्ते तव हृदि चित्ते भयं त्रासो मृतोऽस्मीति मा स्म भूत् मा भैषीः । न त्वां हन्मि । नहि जातु168 कदाचिदपि मे मम खड्गो विमुखेषु समरनिरास्थेषु अप्रतिप्रहरत्सु अप्रहर्तृषु क्रमितुं वाञ्छति । नास्त्यस्येदृशी स्थितिः यद्विमुखेषु प्रहरतीति ॥