तदुदाहरति—

मानमस्या निराकर्तुं पादयोर्मे नमस्यतः ।
उपकाराय दिष्ट्यैतदुदीर्णं घनगर्जितम् ॥ २९७ ॥

अस्याः प्रियाया मानं प्रतिकूलवर्तितां निराकर्तुं पादयोरेनामस्या वा नमस्यतः नमतो मे ममोपकाराय आरब्धकार्यानुग्रहार्थं घनस्य मेघस्य गर्जितं मन्मथनिर्भर्त्सितमिव मानिनीमानदुःसहमुदीर्णम् उदितं दिष्ट्येत्यानन्दनिवेदनमिष्टसिद्धेः । इह मान-170 निराकरणं कार्यमारब्धम्, तत्र विधिवशाद् घनगर्जितमपरं साधनं च समापन्नमिति लक्षणं योज्यम् ॥