अपह्नुतिमधिकृत्याह—

अपह्नुतिरपह्नुत्य किञ्चिदन्यार्थदर्शनम् ।
न पञ्चेषुः स्मरस्तस्य सहस्रं पत्रिणामिति ॥ ३०२ ॥

किञ्चिद्वस्तुरूपमपह्नुत्य निराकृत्य नेदमिति, अन्यस्यार्थस्य धर्मरूपस्य वा दर्शनं विधानं यदित्यनूद्य सापह्नुतिरित्यभिधीयते । तामुदाहरति- 80b स्मरः कामः पञ्चेषवोऽस्येति पञ्चेषुर्न भवतीति । इषूणां पञ्चत्वं धर्मोऽत्रापह्नूयते । न स्मर इषवो वा । यदाह—तस्य स्मरस्य पत्रिणामिषूणां सम्बन्धि सहस्रं सहस्रसंख्यता । अन्यथा कथं भुवनत्रयं जयेदिति । अन्यस्य सहस्रसंख्यालक्षणस्यार्थस्य धर्मान्तरस्य दर्शनमितीदृशी धर्मापह्नतिरवसेयेति ॥