क्रमप्राप्तं श्लिष्टं लक्षयति—

श्लिष्टमिष्टमनेकार्थमेकरूपान्वितं वचः ।
तदभिन्नपदं भिन्नपदप्रायमिति द्विधा ॥ ३०८ ॥

यद् वचो वचनमनेको भिन्नोऽर्थोऽभिधेयं यस्येत्यनेकार्थम् । एकेन समानेन रूपेण शब्दस्वभावेन अन्वितं युक्तं सरूपम् इत्यनूद्य श्लिष्टं तदिष्टं स्मर्यत इति विधीयते । तच्चैवं लक्षणं श्लिष्टं द्विधा प्रकारद्वयेन भिद्यते । कथम् ? अभिन्नमेकं पदं सुबन्ततिङन्तरूपं यत्र तदभिन्नपदमविकृतशब्दं भिन्नमनेकम्, पदं भङ्गेन योजनात्, प्रायमधिकं यत्र तद् भिन्नपदप्रायम् । तेन वा प्रायमधिकं किञ्चिदभिन्नमिति प्रायोग्रहणेन सूचयति । अनेन रूपेण द्विधेति प्रकृतम् ॥