विशेषोक्तिमाविष्कुर्वन्नाह—

गुणजातिक्रियादीनां यत्तु वैकल्यदर्शनम् ।
विशेषदर्शनायैव सा विशेषोक्तिरिष्यते ॥ ३२१ ॥

179 गुणश्च जातिश्च क्रिया च आदिशब्देन द्रव्यपरिग्रहः । तेषां वैकल्यस्याभावस्य दर्शनं वचनं यत्तत् । किमर्थम् ? विशेषस्यातिशयस्य कस्यचित्कार्यविषयस्य दर्शनाय प्रतिपादनार्थमेव । अत एव विशेषपरत्वात् सा तल्लक्षणा विशेषोक्तिरिष्यते मनीषिभिरिति ॥