न बद्धा भ्रूकुटिर्नापि स्फुरितो दशनच्छदः ।
न च रक्ताभवद् दृष्टिर्जितं च द्विषतां कुलम् ॥ ३२४ ॥

180 केनचिद् धीरेण भ्रूकुटिर्भ्रूभङ्गः कोपजन्मा न बद्धा न रचिता । दशनच्छदश्च अधरो न स्फुरितः कोपान्न कम्पि । दृष्टिश्च रक्ता रोषारुणा नाभवत् । तथापि च द्विषतां कुलम् अरिवर्गः जितं भग्नम् । चित्रमेतत् । अत्र भ्रुकुटीबद्धदशनच्छदस्फुरणादेः क्रियाया विगमेन निर्विकाररिपुविजयलक्षणो विशेषो दर्शित इति ॥