180 केनचिद् धीरेण भ्रूकुटिर्भ्रूभङ्गः कोपजन्मा न बद्धा न रचिता । दशनच्छदश्च अधरो न स्फुरितः कोपान्न कम्पि । दृष्टिश्च रक्ता रोषारुणा नाभवत् । तथापि च द्विषतां कुलम् अरिवर्गः जितं भग्नम् । चित्रमेतत् । अत्र भ्रुकुटीबद्धदशनच्छदस्फुरणादेः क्रियाया विगमेन निर्विकाररिपुविजयलक्षणो विशेषो दर्शित इति ॥

न रथा न च मातङ्गा न हया न च पत्तयः ।
स्त्रीणामपाङ्गदृष्ट्यैव जीयते जगतां त्रयम् ॥ ३२५ ॥

रथाः स्यन्दना न सन्ति । न मातङ्गा हस्तिनः सन्ति । न च हया अश्वाः । नापि पत्तयः पदातयः । चतुरङ्गमनीकमिदं जयोपकरणम् । तथापि स्त्रीणामपाङ्गदृष्ट्या कटाक्षेणैव केवलं जगतां त्रयं त्रिभुवनं जीयते वशीक्रियते । अत्र रथादिलक्षणद्रव्याभावेन जगत्त्रयविजयलक्षणो विशेषः स्त्रीकटाक्षस्याविष्कृत इति ॥

विशेषोक्तेर्विकल्पान्तरं दर्शयन्नाह—

एकचक्रो रथो यन्ता विकलो विषमा हयाः ।
आक्रामत्येव तेजस्वी तथाप्यर्को जगत्त्रयम् ॥ ३२६ ॥

एकं चक्रमस्येत्येकचक्रो रथः । कथं वहति ? यन्ता सारथिश्चारुणलक्षणः अङ्गविकलः । कथं कर्मण्य ? हया रथ्याश्च विषमाः सप्त । कथं धौरेयाः ? तथाप्यर्कः तेजस्वी प्रतापविशेषयुक्तो यतस्तस्मात् जगतां त्रयमाक्रामत्यभिभवति । तेजस्तत्रनिमित्तमिति ॥

[केयं] विशेषोक्तिरित्याह—

सैषा हेतुविशेषोक्तिस्तेजस्वीति विशेषणात् ।
अयमेव क्रमोऽन्येषां भेदानामपि कल्पने ॥ ३२७ ॥

सैषा अनन्तरोक्ता तादृशी हेतुविशेषोक्तिर्नाम विज्ञायते । कुतः ? तेजस्वीत्यर्क