न रथा न च मातङ्गा न हया न च पत्तयः ।
स्त्रीणामपाङ्गदृष्ट्यैव जीयते जगतां त्रयम् ॥ ३२५ ॥

रथाः स्यन्दना न सन्ति । न मातङ्गा हस्तिनः सन्ति । न च हया अश्वाः । नापि पत्तयः पदातयः । चतुरङ्गमनीकमिदं जयोपकरणम् । तथापि स्त्रीणामपाङ्गदृष्ट्या कटाक्षेणैव केवलं जगतां त्रयं त्रिभुवनं जीयते वशीक्रियते । अत्र रथादिलक्षणद्रव्याभावेन जगत्त्रयविजयलक्षणो विशेषः स्त्रीकटाक्षस्याविष्कृत इति ॥