तामुदाहरन्नाह—

न कठोरं न वा तीक्ष्णमायुधं पुष्पधन्वनः ।
तथापि जितमेवासीदमुना भुवनत्रयम् ॥ ३२२ ॥

पुष्पधन्वनः कामस्यायुधं कुसुम[म]न्यद्वा तादृशं न कठोरं न कठिनम् न च अतितीक्ष्णं न च निशातं यथान्यत्, आयुधमयोमयं तेजितं खड्गादि तथाप्येवमपीति विशेषविवक्षायाम् । यदाह—अमुना पुष्यधन्वना आयुधेन वा भुवनानां स्वर्गादीनां त्रयं कृत्स्नं जगत् जितमाक्रान्तमेव नाजितमपि आसीदभवत् । 83b अहो चित्रम् ! इह काठिन्यतैक्ष्ण्यलक्षणस्यायुधत्वेन प्रसिद्धस्य निषेधेनानङ्गास्त्रस्य जगज्जैत्रस्य विशेषः कोऽप्याविष्कृतो जगज्जयकार्यविषयः । तादृशमपीदं जगद्विजयसमर्थमहो यथेदं प्रतिविशिष्टमिति ॥