सेयमप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते ।
राजानुवर्तनक्लेशनिर्विण्णेन मनस्विना ॥ ३४० ॥

सेयमनन्तरोक्ता मृगाणां वृत्तिरयत्नसुलभजलदर्भाङ्कुररूपा जीविका, वर्तन्ते जीवन्त्यनयेति कृत्वा । अप्रस्तुता अप्रक्रान्तैव, न प्रस्तुतापि तादृशप्रकरणाभावात् । प्रशस्यते संराध्यते अत्र प्रयोगे केनचिद् राज्ञोऽनुवर्तनम् सेवा तदेव क्लेशः दुःखरूपत्वात् । ततो निर्विण्णेनातिविरक्तेन मनस्विनोदात्तेन केनचित्ततोऽप्रस्तुतापीयमीदृग्विषया [स्तुतिः] काव्यशोभाकरत्वादलङ्कारः । अयमपरोऽत्र उदाह्नियते—

सुखिनस्ते महात्मानः संतोषपरिभाविताः ।
सुखाभासैः परिक्लेशैर्वर्जितात्मपरिग्रहैः ॥
इत्थमप्रक्रमेणैवमनिवृत्तिः प्रशस्यते ।
धनार्जनादिसंक्लेशनिर्वेदवशवर्तिना ॥
समासोक्तेरियं कथं भेद्यते, उभयत्राप्यन्यदभिप्रेत्यावान्तराभिधानात् ? तत्र सदृशम एवार्थान्तरमभिधीयते । इह तु विसदृशमिति महान् भेदः । विसदृशात् कथमर्थान्तर-186 प्रतीतिरिति चेत् ? सदृशादपि कथम् ? अर्थप्रकरणादेरिति97 चेदिहाप्येवमस्तु । तत्र तादृशी प्रतीतिरिहेदृशीति न किञ्चिद्विरुध्यते । अन्ये त्विह प्रशस्यमेवाभिधीयते । तत्र तु निन्द्यमपीति विशेषं व्याचक्षते । तथैकान्तिको भेदोऽनयोर्निदशितः स्यादिति ॥

  1. तुल संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ —वाक्यपदीये