असत्फलं निदर्शयन्नाह—

याति चन्द्रांशुभिः स्पृष्टा ध्वान्तराजिः पराभवम् ।
सद्यो राजविरुद्धानां सूचयन्तो दुरन्तताम् ॥ ३४८ ॥

चन्द्रस्यांशुभिः स्पृष्टा भिन्ना ध्वान्तस्य तमसो राजिः संघातः पराभवं निधनं याति पराभूयत इति यावत् । सद्यस्तत्क्षणम् । किं कुर्वती ? राजा चन्द्रो नृपतिश्चेति श्लिष्टम् । तेन विरुद्धानां केषाञ्चित् दुष्टो विपद्रूपोऽ[न्तोऽ]वसानं यस्य तद्भावस्तत्ताम् अनर्थनिष्ठतां सूचयन्तीति । राजविरोधहेतुकमसत्फलमेतद् दर्शितम् पराभवस्यानिष्टत्वात् ॥