191 संप्रति परिवृत्तेश्च परिवृत्तेरपि रूपस्य निरूपणं किञ्चित् संक्षिप्तं क्रियत इति ॥

शस्त्रप्रहारं ददता भुजेन तव भूभुजाम् ।
चिरार्जितं हृतं तेषां यशः कुमुदपाण्डुरम् ॥ ३५४ ॥

तव भुजेन भुजगराजभोगायमानेन शस्त्रैः कृपाणादिभिः प्रहारं ददता प्रयच्छता भूभुजां राज्ञाम् । पूजानुग्रहनिन्दा[घात]दानस्य दानत्वाभावात् न चतुर्थी । चिरं दीर्घमर्जितं सञ्चितं कुमुदवत् पाण्डुरं यशस्तेषां भूभुजां सम्बन्धि हृतं गृहीतम् । अत्र प्रहारेण कर्मणा यशोरूपो गुणो विनिर्मितः । इतीदृशी परिवृत्तिरनुगन्तव्या ।

जगतां प्रीतिसर्वस्वं [धैर्यं मतिम]तामपि ।
कटाक्षमात्रमुत्सृज्य गृह्णन्ति हरिणीदृशः ॥

इत्यपरमुदाहरणम् ।

॥ इति परिवृत्तिः ॥

आशिषमाविष्कुर्वन्नाह—

आशीर्नामाभिलषिते वस्तुन्याशंसनं यथा ।
पातु वः परमं ज्योतिरवाङ्मनसगोचरः ॥ ३५५ ॥

अभिलषिते वाञ्छिते वस्तुनि क्वचित् क्रियाविशेषे आशंसनं प्रार्थनमित्यनूद्य आशीर्नाम विज्ञायत इति विधीयते । यथेत्युदाहरति— परमं पारमार्थिकं सकलकल्पनामलविकलं ज्योतिः संवेदनं सर्वपदार्थतत्त्वप्रकाशकत्वात् वाचो मनसश्चाविकल्पत्वात् न गोचरो न विषय इत्यवाङ्मनसगोचरः । अवाङ्मनसगोचरमित्यपि पठ्यते । तत्र न विद्यते वाङ्मनसयोर्गोचरो विषयभावो ग्राहकत्वमस्येति व्याख्येयम् । वो युष्मान् पातु रक्षतु । अत्राभिलषितं रक्षणमाशस्यत इति ।

पायादपायतो लोकं लोकविद्नुणसागरः ।
नैरात्म्याद्वयसंवित्तेर्विजितावरणद्वयः ॥