ये काव्यधर्माः शास्त्रान्तरे स[न्ध्य]ङ्गादि[शब्द]व्यवहृताः त इह तल्लक्षणयोगादलङ्कारेषु संगृहीता इतिं दर्शयन्नाह—

यच्च सन्ध्यङ्गवृत्त्यङ्गलक्षणाद्यागमान्तरे ।
व्यावर्णितमिदं चेष्टमलङ्कारतयैव नः ॥ ३६४ ॥

वक्तॄणां[?] वक्तव्यान्तरसमुच्चये सन्धयो—मुखं प्रतिमुखं गर्भोऽवमर्शो निर्वहणमिति पञ्चोक्ताः110 । तत्र उपक्षेपः परिकरः परिन्यासो विलोभनं युक्तिः प्राप्तिः समाधानं विधानं परिभावना उद्भेदः करणं भेद इति मुखाङ्गानि । विलासः परिसर्पो विधूतं तापनं नर्म नर्भद्युतिः प्रगमनं विरोधः पर्युपासनं पुष्पं वज्रभुपन्यासो199 वर्णसंहार इति प्रतिमुखाङ्गानि । अ[भू]ताहरणं मार्गो रूपमुदाहरणं क्रमः संग्रहोऽनुमानं [प्रार्थना]111 आक्षिप्तकं तोटकमधिबलमु[द्वे]गः संभ्रम इति गर्भाङ्गानि । अवपात उत्पातः112 सम्फेटः विद्रवः शक्तिः व्यवसायः प्रसादो द्युतिः खेदो निषेधो विरोध आदानं छलनं प्ररोचनेत्यवमर्शाङ्गानि । सन्धिर्निरोधो ग्रथनं निर्णयः परिभाषणं द्युतिः प्रसाद आनन्दः समय उपगूहनं भाषणं पूर्वभावः काव्यसंहारः प्रशस्तिरिति निर्वहणाङ्गानि ।

वृत्तयो—भारती सात्त्वती कैशिकी आरभटी चेति चतस्रः113 । तासां प्रत्येकं चत्वार्यङ्गानि । तत्र भारत्याः प्ररोचना आंमुखं वीथी शिल्पकं चेत्यङ्गचतुष्टयम् । सात्वत्या उत्थापकः परिवर्तकः संलापकः संघात्यश्चेति । कैशिक्या [नर्म] नर्मस्फिञ्जो नर्मस्फोटो नर्मगर्भश्चेति । आरभट्याः संक्षिप्तकोऽवपातो वस्तूत्थापनं संफेटश्चेत्यङ्गचतुष्टयम् ।

लक्षणानि—भूषणमक्षरसंघातः शोभा उदाहरणं हेतुः संशयः दृष्ठान्तः प्राप्तिः [अभि] प्रायो निदर्शनं निरुक्तकं सिद्धिः विशेषणं गुणातिपातोऽतिशयः तुल्यतर्कः पदोच्चयो दृष्टान्तमुपदिष्टं विचारो विपर्ययो भ्रंशोऽनुनयो माला दाक्षिण्यं गर्हणमर्थापत्तिः प्रसिद्धिः पृच्छा सारूप्यं मनोरथो लेशः संक्षोभो गुणकीर्तनमनुक्तसिद्धिः प्रियवचनमिति षट्त्रिंशदुक्तानि114 ।

एषां तु स्वरूपमिह विस्तरभयादनधिकाराच्च न निर्दिश्यते । तदागमान्तरादेवानुगन्तव्यम् । तदेतदादिर्यस्यान्यस्यापि तादृशस्य लास्याङ्गवीथ्यङ्गादेस्तत्तथा [व्या]वर्णितमधिकारे विस्तरेण अनेकधा चर्चितम् । आगमान्तरेऽन्यस्मिन् शास्त्रे भरतादौ । इदं च सर्वं न केवलं पूर्वोक्तम् । काव्यशोभाकरत्वेन तल्लक्षणयोगादलङ्करणाद् वा अलङ्कार इत्येव । न सन्ध्यङ्गादित्वेन काव्यार्थत्वेन वा पृथगलङ्कारात् । काव्यशोभाकरं हि तथा तादृशं कथमलङ्कारतामतिक्रामेत् ? इष्टमनुगतमस्माकं क्रियाकल्प [एतदिति स्वी]क्रियताम् । अतस्तादृशं सर्वमलङ्कारसंगृहीतमिति । नाससंग्रहः कश्चिदिहेति भावः । अत एव वक्ष्यति—

संक्षिप्य विस्तरमनन्तमलंक्रियाणाम्
115 200 इति । न च काव्यशरीरालङ्कारव्यतिरिक्तः कश्चित् काव्यधर्मः सम्भवति यस्ताभ्याम् असंगृहीतः स्यात् । तदिह यथालक्षणमाभ्यां संगृहीतमिति न किञ्चित् क्षीयते ॥

  1. तुल भारतीयनाट्यशास्त्रं १९. ३७-६७

  2. इयं मातृकायां नास्ति ।

  3. अयं नाट्यशास्त्रे नास्ति ।

  4. भारतीये नाट्यशास्त्रे २०. १-७३ ।

  5. तत्रैव १६.१-४२ ।

  6. २.३६५