तुण्डैराताम्रकुटिलैः पक्षैर्हरितकोमलैः ।
त्रिवर्णराजिभिः कण्ठैरेते मञ्जुगिरः शुकाः ॥ ९ ॥

एते प्रत्यक्षवर्तिनः शुकाः तुण्डैः चञ्चुभिः आताम्रैः लोहितैः, कुटिलैः वक्रैश्च, पक्षैश्च हरितवर्णैः, कोमलैः मृदुभिः कण्ठैश्च, त्रिभिर्वर्णैः सितासितलोहितैः राजिभिः लक्षिताः । मञ्जर्मधुरा गीः शब्दो येषां ते मञ्जुगिरः । इयं शुकजातेः पदार्थस्य विचित्रं स्वरूपं वक्तीति जातिस्वभावोक्तिरीदृशी द्रष्टव्या ॥

70

विशालाः श्रोणिषु क्षामा मध्ये दीर्घा विलोचने ।
पयोधरैरसंक्षिप्तैस्तास्तु रम्या वरस्त्रियः ॥
इत्यपरमुदाहणम् ॥