स्वभावोक्त्यनन्तरोद्दिष्टत्वात्तन्निर्देशानन्तरमुपमां विवृणवन्नाह—

यथाकथञ्चित् सादृश्यं यत्रोद्भूतं प्रतीयते ।
उपमा नाम सा तस्याः प्रपञ्चोऽयं प्रदर्श्यते ॥ १४ ॥

एवमुत्तरत्राप्यनुसर्तव्यम् । यत्र विषये सादृश्यं पदार्थयोः कयोश्चित्साम्यं यथाकथञ्चित् येन केनचित् प्रकारेण, गुणादिना सर्वथा साम्यस्य दुर्लभत्वात् । तत्त्वे[चैक्य]-72 प्रसङ्गात् । प्रतीयते गम्यते शब्दादर्थतो वा यथासम्भवम् । ननु रूपकेऽपि सादृश्यं प्रतीयत इति लक्षणसंकर इति चेदाह—उद्भूतमिति । व्यक्तम्, भेदस्य परिस्फुटत्वादुपमानोपमे43b ययोः । रूपके तु तत्त्वारोप इत्यसङ्करः । अत एव वक्ष्यति—उपमैव तिरोभूतभेदा रूपकमिष्यते ॥72 इति । सा सादृश्योक्तिरुपमानामालंक्रिया वेदितव्या । उपमितिः साधर्म्यकथनमुपमेति कृत्वा । तस्या एवंलक्षणायाः अयं प्रस्तुतः प्रपञ्चः विचित्रः प्रभेदः प्रदर्श्यते उदाह्रियते ॥

  1. २.६६