यद्यप्युपमानोपमेयभूतं वस्तु चन्द्रमुखादिशब्दवाच्यम्, तथापि इवादिशब्दव्यतिरेकेण सादृश्यमभिव्यक्ति न यातीति तदभिव्यञ्जकान् शब्दान् व्यवहारं व्युत्पत्तये दर्शयन्नाह—

इववद्वायथाशब्दाः समाननिभसन्निभाः ।
तुल्यसंकाशनोकाशप्रकाशप्रतिरूपकाः ॥ ५७ ॥
प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः ।
सदृक्सदृशसंवादिसजातीयानुवादिनः ॥ ५८ ॥
प्रतिबिम्बप्रतिच्छन्दसरूपसमसम्मिताः ।
सलक्षणसदृक्षाभसपक्षोपमितोपमाः ॥ ५९ ॥
कल्पदेशीयदेश्यादिः प्रख्यप्रतिनिधी अपि ।
सवर्णतुलितौ शब्दौ ये च तुल्यार्थवाचिनः ॥ ६० ॥
समासश्च बहुव्रीहिः शशाङ्कवदनादिषु ।
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति ॥ ६१ ॥
आक्रोशत्यवजानाति कदर्थयति निन्दति ।
विडम्बयति संरुन्ध्दे हसतीष्यत्यसूयति ॥ ६२
86
तस्य मुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति ।
तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति ॥ ६३ ॥
तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहते ।
तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति ॥ ६४ ॥
तस्य चानुकरोतीति शब्दाः सादृश्यसूचिनः ।
उपमायामिमे प्रोक्ताः कवीनां बुद्धिसौख्यदाः ॥ ६५ ॥

इवश्च वच्च यथा च ते शब्दाश्चेति विग्रहः । समाननिभसन्निभाः पूर्ववच्चार्थः । शब्दा इति वक्ष्यमाणमपेक्ष्य पुंस्त्वमिति ॥ तुल्यादिष्वप्यनन्तरो[क्तेषु तथैव] वाच्यमिति । सदृशादिकमपि पूर्ववत् सुगममिति ॥ सलक्षणादीनामपि सैव रीतिः ॥ आदिशब्देन बहुजादिपरिग्रहः ।

अयं कुणालो बहुसागरः प्रियः [?]
इत्यादि च लक्ष्यमालक्ष्यमिति ॥ सवर्णेत्यादि । ये चान्यूनं सममर्थं वदन्ति सधर्मसाधारणसच्छायादयोऽनुक्ताः तेऽपि शब्दाः सादृश्यसूचिन इत्यवेक्षणीयम् । शशाङ्क इव वदनं यस्याः सा तथा । आदि शब्देनोत्पलाक्ष्यादिपरिग्रहः । तेषु प्रयोगेषु समासश्च बहुव्रीहिरन्यपदार्थः । सादृश्यसूचक इत्यपेक्षमिति ॥ स्पर्द्धत इत्यादि सुगममिति । एते सर्वे शब्दा यथोक्ताः सादृश्यम् उपमानोपमेययोः साम्यं सूचयन्ति व्यञ्जयन्तीति सादृश्यसूचिनः प्रतिपत्तव्या इति उपमाप्रपञ्चः ॥