54a अनुक्तान् दीपकविकल्पान् अतिदिशन्निगमयति—

अनेनैव प्रकारेण शेषाणामपि दीपके ।
विकल्पानामनुगतिर्विधातव्या विचक्षणैः ॥ ११५ ॥

अनेनव अनन्तरोक्तेन प्रकारेण विधिना दीपके दीपकविषयाणां शेषाणामनुक्तानामपि विकल्पानां भेदानामनुगतिरवबोधः । विधातव्या क्रियतां विचक्षणैः कविभिरिति ॥ सा चानुगतिरेवं विधातव्या—

अधरस्तव तन्वङ्गि ! रागः साक्षादिवेक्ष्यते ।
हृदयं रञ्जयत्येष प्राणान् हरति यन्मम ॥
उपमादीपकम् ।
हरन्ति हरिणाक्षीणां दृष्टयो रागलालसाः ।
वदन्तीव जनान्मुक्तेरायता वयमर्गलाः ॥
उत्प्रेक्षादीपकम् ।
न खङ्गधारा निशिता निशाता नापि सायकाः ।
हरन्ति [च] मम प्राणान् मृगाक्षि तव विभ्रमाः ॥
आक्षेपदीपकम् ।
एवमन्येऽपि दीपकविकल्पा अनुगन्तव्या इति ॥