आक्षेपमुपक्षिपन्नाह—

प्रतिषेधोक्तिराक्षेपस्त्रैकाल्यापेक्षया त्रिधा ।
अथास्य पुनराक्षेप्यभेदानन्त्यादनन्तता ॥ १२० ॥

प्रतिषेधस्योक्तिर्वचनमित्यनूद्य आक्षेप इति विधीयते । स च त्रिधा त्रिभिः प्रकारैस्तावद् भिद्यते । कथम् । त्रयोऽतीतानागतवर्तमानाः कालास्त्रैकाल्यम् । तस्या पेक्षया104 आश्रयणेन हेतुना भूताक्षेपः, भविष्यदापेक्षः, वर्तमानापेक्ष इति । अत्र त्रिधाभेदानन्तरमस्याक्षेपस्य अनन्तता अनवसितभेदता । कुतः ? आक्षेपस्य निषेधस्यार्थसा55a मान्यस्य भेदाः विकल्पा आक्षेपरूपा वा भेदाः । तेषामानन्त्यादपर्यवसानात् कारणादिति ॥