अर्थान्तरन्यासमुपन्यस्यति—

ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किञ्चन ।
तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ॥ १६७ ॥

विवक्षितं किञ्चिद्वस्तु अर्थरूपं प्रस्तुत्याभिधाय तस्य प्रस्तुतस्य वस्तुनः साधने समर्थस्य योग्यस्यान्यस्य वस्तुनः कस्यचित् न्यासः प्रयोगो यः, स एवंलक्षणोऽर्थान्तरन्यासो नामालङ्कारो ज्ञेयः प्रतिपत्तव्यः । प्रतिवस्तूपमा[या] अस्य च को भेदः उभयत्राप्यर्थान्तरोपन्यासात् ? महान् भेदः । तत्र हि सदृशस्यार्थान्तरस्योपन्यासः केवल59b मपेक्षते, न साधनभूतस्य । अत्र तु साधनरूपस्यैवार्थान्तरस्य । सादृश्यं भवतु मा [वा] भूत्, न तदपेक्षते । अत एवोक्तं तत्साधनसमर्थस्येति ॥