अयं मम दहत्यङ्गमम्भोजदलसंस्तरः ।
हुताशनप्रतिनिधिर्दाहात्मा ननु युज्यते ॥ १७५ ॥

अम्भोजानां कमलानां दलानि पत्राणि तेषां तन्मयो वा संस्तरः तल्पम् । अयम् अनुभूयमानः मम अङ्गं देहं दहति तापयति । युक्तं चैतत् । कथम् ? हुताशनस्य अग्नेः प्रतिनिधिः सदृशः पाटलत्वात् दाहात्मा दाहस्वभावो रक्तपद्मपत्रसंस्तरो युज्यते नन्विति साधितम् । अयं च युक्तात्मा कथितेन विधिना दाहकत्वयोगादिति ॥