कुमुदान्यपि तापाय किमङ्ग ! कमलाकरः ।
नहीन्दुगृह्येषूग्रेषु सूर्यगृह्यो मृदुर्भवेत् ॥ १७७ ॥

तापाय पीड़ार्थं कल्पन्ते । अयुक्तमेतदिति अपिशब्देनायोगः सूच्यते । चन्द्रपक्षाणां तापकारित्वायोगात् । किमङ्ग किं पुनः कमलाकरः तापाय न भवेत् । भवत्येव । युक्तमेतत् । किं तदयुक्तमिदं तु युक्तमिति साधयति- नहीत्यादि । इन्दोः एकान्तशीतस्य गृह्येषु पक्षेषु कुमुदेषूग्रेषु तापकारिषु, सूर्यस्य एकान्ततप्तस्य गृह्यः आयत्तः121 कमलाकरो मृदुः शीतो भवेत् । कथमेवं सम्भवात् ? तस्मात् कुसुदानां तापकरत्वम् अयुक्तम् । कमलाकरस्य तु युक्तमिति साधितम् । अयं तु विपर्ययो युक्तायुक्त इति ॥

61a आदिग्रहणसंगृहीताः केचिद्भेदा उदाह्रियन्ते ॥

सुखाय सुधियां लक्ष्मीर्न कदाचिदशर्मणे ।
किमुत श्रीः सुखप्राप्त्ये जायते न विपश्चिताम् ॥
अविरुद्धोऽयम् ॥
सुखाय विपदः सन्तु सम्पदोऽपि सुखाय ते ।
दुर्नयप्रस्थितानां हि सम्पदोऽपि विपत्तयः ॥
अविरुद्धविरुद्धोऽयम् ॥
अपकारोऽप्युपात्तेषु हिताय किमु सत्कृतिः ।
कृपाध्यासितचित्तानामीदृशी महतां स्थितिः ॥
एवमन्येप्यादिशब्दसंगृहीताः प्रभेदा ऊहितव्या इति ॥