अतिशयोक्तिमादर्शयन्नाह—

विवक्षया विशेषस्य लोकसीमातिवर्तिनः ।
असावतिशयोक्तिः स्यादलङ्कारोत्तमा यथा ॥ २१२ ॥

विशेषस्य वस्तुगतस्य प्रकर्षस्य अतिमात्रस्य 66b कस्यचिद्विवक्षया प्रतिपादनाभिप्रायेण हेतुना लोकस्य जगतः सीमा स्थितिः । तामतिवतितुं लंघयितुं शीलं यस्याः सा लोकसीमातिवर्तिनी । या इत्यनूद्य असौ सा तल्लक्षणा अतिशयोक्तिः स्यादिति विधीयते । विवक्षा या इति पाठे अतिशयस्य लोकसीमातिवर्तिनी या विवक्षा असौ अतिशयाक्तिरिति योजनीयम् । अतिशयस्य यथास्थिताद् वस्तुनः अविकलस्य उत्कर्षस्य प्रतिपादिका इति अतिशयोक्तिः । सा च इयमलङ्काराणामन्येषाम् उत्तमा प्रधाना, अत्यन्तमनोहरत्वात् । यथाहि वस्तुनो मनोज्ञस्य प्रकृत्या ततोऽपि अतिरिक्ता काप्यवस्था प्रतिसंस्क्रियते, सा नितरामनुरागमातनोतीति अलङ्काराधिराजत्वेनैषा अभिषिच्यते कविभिरिति ॥