उत्प्रेक्षामालक्षयन्नाह—

अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा ।
अन्यथोत्प्रेक्ष्यते यत्र तामुत्प्रेक्षां विदुर्यथा ॥ २१९ ॥

चेतनस्य सजीवस्य अचेतनस्य निर्जीवस्य वस्तुनः वृत्तिः अवस्था अन्यथैव विवक्षितप्रकारापेक्षया अन्येनैव रूपेण यथा भवति [तथा] स्थिता वर्तमाना सती यथावस्थानादन्येन प्रकारेण अन्यथा उत्प्रेक्ष्यते परिकल्प्यते 68a यत्र उक्तौ तामेवंलक्षणामुत्प्रेक्षां विदुः विदन्ति कथयन्ति कवयः । उत्प्रेक्ष्यते अन्यथाक्रियते वस्तुस्थितिः अस्याम् अनया इति वा उत्प्रेक्षा । यथेत्युदाहरति ॥