पाणिपद्मानि भूपानां सङ्कोचयितुमीशते ।
त्वत्पादनखचन्द्राणामर्चिषः कुन्दनिर्मलाः ॥ २५७ ॥

देव ! तव पादानां नखाश्चन्द्राः कान्त्यादिना तेषामर्च्चिषः किरणाः कुन्दकुसुमनिर्मलाः शुद्धाः भूपानां राज्ञां पाणीन् पद्मानि कान्त्यादिना सङ्कोचयितुं प्रणतिकरसम्पुटरूपेण मीलयितुमीशते कल्पन्ते । युक्तकारी चित्रहेतुरेवंविधः, चन्द्रतः पङ्कजसंकोचस्योचितत्वादिति ॥

हेतुमुपसं[हरन्नाह]—

इति हेतुविकल्पस्य दर्शिता गतिरीदृशी ।

इति कथितेन विधिना हेतोर्विकल्पस्य प्रभेदस्य सामान्यरूपानुगतस्य गतिः स्वरूपमीदृशी कथितरूपा दर्शिता प्रतिपादिता ॥