तमुदाहरन्नाह—

युवैव गुणवान् राजा योग्यस्ते पतिरूर्जितः ।
रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि ॥ २६७ ॥

युवा तरुणः । विषयसम्भोगैकरसे विविधा[नन्दजु]षि वयसि वर्तमान एव गुणवान् विनयसम्पन्नः । एवम्भूतोऽपि, न यः कश्चित् । किं तु राजा मध्यमलोकपालः । ऊर्जितस्तेजस्वो महानुभावः तवायमेव योग्यः समुचितः पतिर्वरो वरारोहे ! पुण्येन महता प्राप्तः । यस्य विक्रमैकरसस्य रणे उत्सवे प्रीतिकरत्वान्मनः सक्तं निरतं कामोसवात्सुरतसुखादप्यधिकम्, न तस्यात्रास्था यथा समरमहोत्सवे इति ॥