क्रमं विवरीतुमुपक्रमते—

उद्विष्टानां पदार्थानामनुदेशो यथाक्रमम् ।
यथासंख्यमिति प्रोक्तं संख्यातं क्रम इत्यपि ॥ २७१ ॥

उद्दिष्टानां पूर्वप्रयुक्तानामर्थानां वस्तूनां केषाञ्चिंद् यथाक्रममुद्देशक्रमानतिक्रमेण अनुदेशः प्रत्याम्नायः पुनरर्थान्तराश्रयेण परामर्शः 76b यथासंख्यमिति यथासंख्यं प्रोक्तम् । यथासंख्यमित्यपेक्ष्य नपुंस[क]त्वम् तस्य विधेयत्वात् । अनुदेशस्यानूद्यतया अप्रधानत्वान्न तल्लिङ्गपरिग्रहः । प्रोक्तम् इति संख्यातमित्यपि प्रोक्तम् । क्रम इत्यपि प्रोक्त इति लिङ्गपरिणामेन योज्यम् । क्रम इत्यपि उपदिश्यत इति वा अध्याहार्यम् इति ॥