प्रेयोरसवदूर्जस्वीत्यलङ्कारत्रयं लक्षयन्नाह—

प्रेयः प्रियतराख्यानं रसवद्रसपेशलम् ।
ऊर्जस्वि रूढ़ाहङ्कारं युक्तोत्कर्ष च तत् त्रयम् ॥ २७३ ॥

प्रियतरस्यातिशयेन प्रियस्यार्थरूपस्य कस्यचिदाख्यानं प्रतिपादनम् आख्यायते अनेनेत्यनूद्य प्रेय इति ज्ञाप्यते । रसेन शृङ्गारादिना प्रतिपाद्येन पेशलं मनोज्ञं रसवद् वाक्यं विज्ञेयम् । रूढ़ो दीप्तोऽहङ्कारः सौटीर्यं यत्र तादृशं वचनमूर्जस्वि ज्ञेयम् । तच्चैतत्त्रयं प्रेयो रसवत् ऊर्जस्वि च युक्तः सङ्गतः उत्कर्षोऽधिमात्रता येनेति युक्तोत्कर्षमत्यन्तप्रियमेकान्तरसवत् भृशमूर्जस्वीत्यर्थः । अयं चार्थः- अयमु[प]मादिभिरतिशयविधिभिरुक्तो युक्तोत्कर्ष इति ॥