श्लोकेषु नियतस्थानं पदच्छेदं यतिं विदुः ।
तदपेतं यतिभ्रष्टं श्रवणोद्वेजनं यथा ॥ १५२ ॥

श्लोकेषु पद्येषु विषये पदस्य सुपतिङन्तस्य छेदो विरामः छन्दःशास्त्रप्रसिद्धः पदच्छेदः । नियतं तद्धि व्यवस्थानं चतुर्थवर्णादिलक्षणं यस्मिन्निति नियतस्थानम् । तन्नियतस्थानं पदच्छेदम् । अनुवादोऽयम् । यति विदुः स्मरन्ति तद्विद इति विधिः । तस्या यतेरपेतमपगतं तदपेतं यतिभ्रष्टम् । श्रवणं कर्णमुद्वेजयतीति श्रवणोद्वेजनम् । अनश्च हेयम् । श्रुतिसुभगं हि लक्षणानुगतं काव्यमुपादीयते । यथेति [यतिभ्रष्टम्] उदाहरति ॥