ननु नियतस्थानपदच्छेदो यतिरिति हेतुपदैकदेशच्छेदः । तत् कथं न यतिभ्रष्टमित्यत आह—

लुप्ते यदान्ते शिष्टस्य पदत्वं निश्चितं यथा ।
तथा सन्धिविकारान्तं पदमेवेति वर्ण्यते ॥ १५४ ॥

पदस्यान्ते यथासम्भवं विभक्त्यादिरूपे लुप्ते सति शिष्टस्य व्यवस्थितस्य भागस्य पदत्वं निश्चितम् । 118b पठत्यादेः शब्दविद्यायाम् । तथा तद्वत् । सन्धिः संहिता । [तत्र] यणादेः विकारोऽन्यथात्वमन्तोऽवसानं यस्य तत्सम्बन्धि[वि]कारान्तमतद्नुणसंविज्ञानात् सन्धिविकारमपहृत्य शिष्टं प्रकृतिरूपं पदमेवेति वर्ण्यते स्मर्यते शिष्टैः । ततः कार्याकार्येत्यादौ चतुर्थादिना वर्णेण पदच्छेदो यतिर्न विरुध्यत इति ॥