119a मनोहरतया चरता अङ्गनागण्डमण्डले उद्भेदि उद्नतं घर्माम्भः स्वेदजलं लुप्तम् आसु रात्रिष्विति । अर्थसंगतिरियम् । उदाहरणं तु विसन्धेः- अनिलेन चरता अङ्गनागण्डमण्डले इत्येतत् । अत्र हि चरता अङ्गनेत्यत्र अकोऽकि दीर्घः [इत्यनेन प्राप्तोऽपि] सन्धिः न कृत इति विसन्ध्येतद् द्रष्टव्यम् । द्वयोरन्तादिविषयं तु असन्धानमिष्टम्, [महाजनप्र]सिद्धेरिति दर्शयति लुप्तमुद्भेदि घर्माम्भो नभस्यस्मन्मनस्यपि आसु रात्रिष्विति ।