चराचराणां भूतानां प्रवृत्तिर्लोकसंज्ञिता ।
हेतुविद्यात्मको न्यायः सस्मृतिः श्रुतिरागमः ॥ १६३ ॥

चराचराणां स्थावरजङ्गमानां भूतानां प्रवृत्तिः यथास्थिति लोक इति संज्ञिता समाख्या[ता] लोकसंज्ञिता 120a लोके विज्ञायते । हेतुविद्या तर्कशास्त्रम् आत्मा यस्य स हेतुविद्यात्मको न्यायोऽत्र गृह्यते । श्रुतिः वेदः सह स्मृत्या मन्वादिप्रणीतया वर्तते इति सस्मृतिरागमो वेदितव्यः ॥