कालविरोधमुदाहरन्नाह—

पद्मिनी नक्तमुन्निद्रा स्फुटत्यह्नि कुमुद्वती ।

120b नक्तं रात्रौ उन्निद्रा विकसिता पद्मिनी, रात्रिरूपकालविरुद्धमेतत् । पद्मिन्या नक्तं प्रबोधासम्भवात् । कुमुद्वती कुमुदिनी स्फुटति विकसति अह्नि दिने । एतद् दिवसरूपसमयविरुद्धम्, दिवा कुमुद्वतीविकासाभावात् ॥

मधुरुत्फुल्लनिचुलो निदाघो मेघदुर्दिनः ॥ १६७ ॥
श्रव्यहंसगिरो वर्षाः शरदामत्तबर्हिणी ।
हेमन्तो निर्मलादित्यः शिशिरः श्लाघ्यचन्दनः ॥ १६८ ॥

मधुर्वसन्त उत्फुल्लः कुसुमितो निचुलो वञ्जुलोऽस्मिन्निति उत्फुल्लनिचुलः । निदाघो ग्रीष्मः मेघैर्दुर्दिनो मलिनः । श्रव्या मधुरा हंसानां गिरः शब्दा यासु इति श्रव्यहंसगिरो वर्षाः प्रावृट् । आमत्ता वर्हिण्यो मयूर्यो यस्यामिति आमत्तबर्हिणी शरत् । निर्मल आदित्यो यस्मिन्निति निर्मलादित्यो हेमन्तः । शिशिरः श्लाघ्यं सेव्यं चन्दनम् अस्मिन्निति श्लाघ्यचन्दनः । सर्वमेतद् ऋतुषट्कलक्षणं कालविरुद्धं मध्वादिषु ऋतुषु उत्फुल्लनिचुलादीनामसम्भवात् ॥