न्यायविरोधं निगमयति—

गतिर्न्यायविरोधस्य सैषा सर्वत्र दृश्यताम् ।
अथागमविरोधस्य प्रस्थानं दर्शयिष्यते ॥ १७६ ॥

121b न्यायविरोधस्य हेतुविद्याव्याहतेः काव्ये यस्य यस्य गतिः सैषा यथोक्तप्रकारा सर्वत्र अन्यत्रापि यथासम्भवं दृश्यतामवगम्यताम् । अथानन्तरमागमेन धर्मशास्त्रसहितेन वेदेन विरोधस्य बाधाया भारतीभूमेः प्रस्थानं नीतिः दर्शयिष्यते उदाह्रियते ॥