राज्ञां विनाशपिशुनश्चचार खरमारुतः ।
धुन्वन् कदम्बरजसा सह सप्तच्छदोद्गमान् ॥ १८१ ॥

खरो रूक्षो मारुतः कदम्बरजसा कदम्बपुष्परेणुना सह सप्तच्छदोद्गमान् सप्तपर्णकुसुमानि धुन्वन् विकिरन् राज्ञां विनाशस्य पिशुनः पञ्चतां सूचयन् चचार प्रववौ । यद्यपि एकदा कदम्बसप्तपर्णकुसुमासम्भवः कदम्बकुसुमस्य प्रावृषेण्यत्वात् सप्तच्छदपुष्पस्य च शारदत्वात्, तथापि राजविनाशनिमित्तमीदृशमौत्पातिकं सम्भवतीति न कालविरोधः ॥