250 प्रयोगादाश्रयः शिरोलक्षणः आश्रितश्च केशः । तौ च्छन्नौ इत्युभयच्छन्नेयमुदाहृता । केनेश इति [पाठे] केन ककारेण ईशशब्दः सम्भूय, शेषं पूर्ववत् । केन ब्रह्मणा ईशः शङ्कर इति चार्थान्तरं वाच्यम् । तन्महाप्रयोगादुभय[गो]पनं प्रागिवेति व्याख्येयम् ॥

सहया सगजा सेना सभटेयं न चेज्जिता ।
अमातृकोऽयं मूढः स्यादक्षरज्ञस्तु नः सुतः ॥ १२३ ॥

सह हयैरश्वै सह गजैर्भटैश्च सह